________________
सुधा-
|| श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ||
जयतीर्थयतिकृता श्रीमन्यायसुधा
टिप्पणीषट् कोपेता
॥ श्रीगुरुभ्यो नमः ॥ ॥ हरिः ॐ ॥
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद- प्रभाजालोल्लासोपहतसकलावद्यतमसे ।
जगजन्मस्थेमप्रलयरचनाशीलवपुषे
नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ।। १ ।।
वाक्यार्थचन्द्रिका - नित्या गण्यचलघुतिप्रमिति सौ न्याय्यवीर्यातुली-
दार्यप्राभवधीरता मुखगुणवातात्म दिव्याकृतिम् ।
सन्तापादिसमस्तदोषविधुरं वेदैकवेद्यं जग-
ज्जन्मादिप्रदमिन्दिरेश (ममलं) मनिशं नारायणं नौम्यहम्
वेदाम्भोधिसमुद्धृतातिविलसत्सूत्रामृताम्भोलसद्धारावर्षणतुष्टसद्धदवनिज्ञानाङ्कुराधायकम् ||
संसारातपनाशनं सुरमन: सच् । तकानन्दं वेदव्यासविचित्रमेघमनिशं मच्छ्रेयसे संश्रये
11 8 11
॥ २ ॥
यद्वाग्विस्तररश्मिभिर्जगदिदं सन्मार्गमालम्बितं सत्सिद्धान्तवरारविन्दनिवहा विस्तारमासादिताः || दुः सिद्धान्तमहान्धकारनिकरा देशान्तमुल्लङ्घिताः सोऽयं मध्वदिवाकरो भवतु सज्ज्ञानप्रकाशाय मे ॥ ३ ॥ सत्सूत्र।न्वितमध्वभाष्यविलसद्गाण्डीवसंयोजितैः सन्मानेषुभिरर्दयन्कुसमयप्रत्यर्थिदुः स्यन्दनान् । श्रीकृष्णेरित वेदवाजिनियतश्रीमध्वशास्त्रोल्लसद्दिव्यस्यन्दनसंस्थितो जयमुनीशा ख्यार्जुनः स्यान्मुदे ॥ ४ ॥ सच्छास्त्रामलभावबोधकिरणैः संवर्धयन्मध्वसत्सिद्धान्त त्रिमनन्तशिप्यकुमुदनातं विकासं नयन् ।। उद्भूतो खुवर्यतीर्थजलधेस्तापत्रयं वासयन्यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् श्रीमद्रामगिरीन्द्रपादनिरतं विद्रावयन्तं दिशो दुर्वादीन्द्रमहामृगान्निगमसद्याख्यालसन्नादतः ॥ दुःशास्त्र भकुतर्क कुम्भदल प्रौढात्मविद्यानखं वेदव्यासमृगेन्द्रराजमधिकं वन्देऽनिशं मद्गुरुम्
S. T. 1
|| 4 ||
॥ ६ ॥